॥ श्री गणेशस्तोत्रम ॥
श्री गणेशाय नम: । नारद उवाच ।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम ।
भक्तावासं स्मरेनित्यं आयु:कामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम ।
तृतीयं कृष्णपिन्गाक्षं गजवक्त्रं चतुर्थकम ॥२॥
लम्बोदरं पन्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम ॥३॥
नवमं भालचन्द्रंच दशमं तु विनायकम ।
एकादशं गणपतिं द्वादशम् तु गजाननम ॥४॥
द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत ।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥
॥ इति श्रीनारदपुराणे संकटनाशनगणेशस्त्रोत्रं संपुर्णम ॥

No comments:
Post a Comment