नवग्रहपीडाहरस्तोत्र

||नवग्रहपीडाहरस्तोत्र||

श्री गणेशाय नमः|

ग्रहाणामादिरादित्यो लोकरक्षणकारक: |
विषमस्थानसम्भूतां पीडां हरतु मे रवि: ||

रोहिणीशः सुधामूर्ति: सुधागत्रः सुधाशनः |
विषमस्थानसंभूतां पीडां हरतु मे विधु: ||

भूमिपुत्रो महातेजां जगतां भयकृत सदा |
वृष्टिकृदृष्टीहर्ता च पीडां हरतु मे कुज: ||

उत्पातरुपो जगतां चन्द्रपुत्रो महाद्युति: |
सूर्यप्रियकरो विद्वान पीडां हरतु मे बुधः||

देवमन्त्री विशालाक्षः सदा लोकहिते रतः |
अनेकशिष्येसम्पूर्णः पीडां हरतु मे गुरु: ||

दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामति: |
प्रभुस्ताराग्रहाणांश्च पीडां हरतु मे भृगु: ||

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः |
मन्दचारः प्रसन्नात्मा, पीडां हरतु मे शनि: ||

महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः |
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी: ||

अनेकरुपवर्णैश्च शतशोSथ सहस्त्रशः |
उत्पातरुपो जगतां पीडां हरतु मे तमः ||

No comments:

Post a Comment