सूर्याष्टक स्तोत्र

॥सूर्याष्टक स्तोत्र॥

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ॥१॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्‌ ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥२॥

लोहितं रथमारूढं सर्वलोकपितामहम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥३॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥४॥

बृंहितं तेज:पुंजं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्‌ ॥५॥

बन्धुकपुष्पसंकाशं हारकुण्डलभूषितम्‌ ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥६॥

तं सूर्यं जगत्कर्तारं महातेज:प्रदीपनम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥७॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥८॥

इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम्‌ ।

No comments:

Post a Comment